श्रीगङ्गाप्रमाणिकास्तुतिः

 श्रीगङ्गाप्रमाणिकास्तुतिः



श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

ॐ मोक्षोपायाय विद्महे । माङ्गल्यायै च धीमहि ।
तन्नो गङ्गा प्रचोदयात् ॥

हिमालयस्य पुत्रिका हिमाहिमासराप्लवा ।
हिमातिशुभ्रसारका हिमापगा सुगङ्गिका ॥ १॥

हिमालयस्थदैविका प्रमाणितातिपूतका ।
हिमप्रपातकाव्यझा सुकाव्यझाप्रसादिका ॥ २॥

रमापपादरासका उमापशेखरोदका ।
रमारमारमाप्लवा उमारमाभिरामका ॥ ३॥

सनादसारसारगा निनादसुस्वराशुगा ।
सुनादसार्चिताभगा ननादगास्वरापगा ॥ ४॥

सरीगमापधानिसास्वरार्चनातिमोदिता ।
गगाममाधनीसरी स्वरासरा सुरापगा ॥ ५॥

स्वराक्षरा क्षराक्षरा क्षराक्षरा सुवाक्क्षरा ।
सुभाक्षरा शुभाक्षरा सुकाक्षरा सुखाक्षरा ॥ ६॥

सुरागरागरागगा सदाशिवाशिरोदका ।
सुधाप्लवातिमोदका सुराप्लवा शुभोदका ॥ ७॥

भवाभवा भवप्रिया वरप्रदाभगापगा ।
सदामुदाकराम्बिका सदार्चिता पराम्बिका ॥ ८॥

सरागगीतमातृका सुरागपुष्पमालिका ।
वरागरक्तिलास्यका विरागमुक्तिदायिका ॥ ९॥

कुकर्मदारिणीश्वरी विमुक्तिदायिनी जनी ।
सुवासिनीसुपूजिता सुकौशला सुमङ्गला ॥ १०॥

गुरुप्रसादकीर्तिता गुरुप्रमोदगीतिका ।
गुरुप्रचोदनार्चिता गुरुस्वयंकृतार्चना ॥ ११॥

सुमङ्गलं सुगङ्गिके प्रमाणिकास्तुतिस्फुरे ।
सुरागताललास्यके सुवाणि ते सुमङ्गलम् ॥ १२॥

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता
श्रीगङ्गाप्रमाणिकास्तुतिः गुरौ समर्पिता ।
ॐ शुभमस्तु ।

Comments

Popular posts from this blog

ଗଙ୍ଗା କବଚମ୍ 1 ଶ୍ରୀବ୍ରହ୍ମାଣ୍ଡପୁରାଣେ ବ୍ରହ୍ମନାରଦସମ୍ୱାଦେ

ଗଙ୍ଗାସ୍ତୋତ୍ରମ୍ ୪

ଗଙ୍ଗାରାତ୍ରିକା ଶ୍ରୀଧରସ୍ୱାମୀମହାରାଜବିରଚିତା