श्रीगङ्गादशकम्

 श्रीगङ्गादशकम्



श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

ॐ मोक्षोपायाय विद्महे । माङ्गल्यायै च धीमहि ।
तन्नो गङ्गा प्रचोदयात् ॥

ध्यानम्-
नमस्तुभ्यं वरे गङ्गे मोक्षसौमङ्गलावहे ।
प्रसीद मे नमो मातर्वस मे सह सर्वदा ॥

गङ्गा भागीरथी माता गोमुखी सत्सुदर्शिनी ।
भगीरथतपःपूर्णा गिरीशशीर्षवाहिनी ॥ १॥

गगनावतरा गङ्गा गम्भीरस्वरघांषिणी ।
गतितालसुगाप्लावा गमनाद्भुतगालया ॥ २॥

गङ्गा हिमापगा दिव्या गमनारम्भगोमुखी ।
गङ्गोत्तरी तपस्तीर्था गभीरदरिवाहिनी ॥ ३॥

गङ्गाहरिशिलारूपा गहनान्तरघर्घरा ।
गमनोत्तरकाशी च गतिनिम्नसुसङ्गमा ॥ ४॥

गङ्गाभागीरथीयुक्तागम्भीरालकनन्दभा ।
गङ्गा देवप्रयागा मा गभीरार्चितराघवा ॥ ५॥

गतनिम्नहृषीकेशा गङ्गाहरिपदोदका ।
गङ्गागतहरिद्वारा गगनागसमागता ॥ ६॥

गतिप्रयागसुक्षेत्रा गङ्गार्कतनयायुता ।
गतमानवपापा च गङ्गा काशीपुरागता ॥ ७॥

गहनाघविनाशा च गत्युत्तमसुखावनी ।
गतिकालीनिवासा च गङ्गासागरसङ्गता ॥ ८॥

गङ्गा हिमसमावाहा गम्भीरनिधिसालया ।
गद्यपद्यनुतागीता गद्यपद्यप्रवाहिणी ॥ ९॥

गानपुष्पार्चिता गङ्गा गाहितागह्वगह्वरा ।
गायगाम्भीर्यमाधुर्या गायमाधुर्यवाग्वरा ॥ १०॥

नमस्ते तुहिने गङ्गे नीहारमयनिर्झरि ।
गङ्गासहस्रवाग्रूपे नमस्ते मानसालये ॥ ११॥

मङ्गलं पुण्यगङ्गे ते सहस्रश्लोकसंस्फुरे ।
सहस्रायुतसत्कीर्ते सत्त्वस्फूर्ते सुमङ्गलम् ॥ १२॥

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीगङ्गादशकं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।

Comments

Popular posts from this blog

ଗଙ୍ଗାରାତ୍ରିକା ଶ୍ରୀଧରସ୍ୱାମୀମହାରାଜବିରଚିତା

ଗଙ୍ଗାସ୍ତୋତ୍ରମ୍ ୪

ଗଙ୍ଗା କବଚମ୍ 1 ଶ୍ରୀବ୍ରହ୍ମାଣ୍ଡପୁରାଣେ ବ୍ରହ୍ମନାରଦସମ୍ୱାଦେ